१. संज्ञानसूक्तं सस्वरं पठत स्मरत लिखत च।
(छात्र इस सूक्त के मन्त्रों को सस्वर पढ़ें, याद करें और अपनी उत्तर-पुस्तिका में लिखें।)
२. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत -
(क) सर्वेषां मनः कीदृशं भवेत्?
उत्तरम्: सर्वेषां मनः समानं सौमनस्यपूर्णं च भवेत्।
(ख) सङ्गच्छध्वं संवदध्वम् इत्यस्य कः अभिप्रायः?
उत्तरम्: 'सङ्गच्छध्वं संवदध्वम्' इत्यस्य अभिप्रायः अस्ति यत् सर्वे मिलित्वा अग्रे गच्छन्तु तथा च परस्परं सम्भूय विचारविनिमयं कुर्वन्तः एकस्वरेण वदन्तु।
(ग) सर्वे किं परित्यज्य ऐक्यभावेन जीवेयुः?
उत्तरम्: सर्वे वैमनस्यं (परस्परं द्वेषं च) परित्यज्य ऐक्यभावेन जीवेयुः।
(घ) अस्मिन् पाठे का प्रेरणा अस्ति?
उत्तरम्: अस्मिन् पाठे संघटितरूपेण सहजीवनस्य, एकतायाः, परस्परं सामञ्जस्यस्य च प्रेरणा अस्ति।
३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत -
(क) परमेश्वरः सर्वत्र व्याप्तः अस्ति।
प्रश्नः: कः सर्वत्र व्याप्तः अस्ति?
(ख) वयम् ईश्वरं नमामः।
प्रश्नः: वयम् कम् नमामः?
(ग) वयम् ऐक्यभावेन जीवामः।
प्रश्नः: वयम् कथेन / केन जीवामः?
(घ) ईश्वरस्य प्रार्थनया शान्तिः प्राप्यते।
प्रश्नः: ईश्वरस्य कया शान्तिः प्राप्यते?
(ङ) अहं समाजाय श्रमं करोमि।
प्रश्नः: अहं कस्मै श्रमं करोमि?
(च) अयं पाठः ऋग्वेदात् सङ्कलितः।
प्रश्नः: अयं पाठः कस्मात् सङ्कलितः?
(छ) वेदस्य अपरं नाम श्रुतिः।
प्रश्नः: वेदस्य अपरं नाम किम्?
(ज) मन्त्राः वेदेषु भवन्ति।
प्रश्नः: मन्त्राः केषु (कुत्र) भवन्ति?
४. पट्टिकातः शब्दान् चित्वा अधोलिखितेषु मन्त्रेषु रिक्तस्थानानि पूरयत -
(क) सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे संजानाना उपासते।
(ख) समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि।
(ग) समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनों यथा वः सुसहासति।
५. पाठे प्रयुक्तान् शब्दान् भावानुसारं परस्परं योजयत -
| (क) संगच्छध्वम्
| (ख) संवदध्वम्
| (ग) मनः
| (घ) उपासते
| (ङ) वसूनि | धनानि
| (च) विश्वानि | समस्तानि
| (छ) आकूतिः
६. उदाहरणानुसारेण लट्-लकारस्य वाक्यानि लोट्-लकारेण परिवर्तयत -
यथा: बालिकाः नृत्यन्ति - बालिकाः नृत्यन्तु
(क) बालकाः हसन्ति - बालकाः हसन्तु
(ख) युवां तत्र गच्छथः - युवां तत्र गच्छतम्
(ग) यूयं धावथ - यूयं धावत
(घ) आवां लिखावः - आवां लिखाव
(ङ) वयं पठामः - वयं पठाम
Comments
Post a Comment